Pages

Rama - The Prince of Ayodhya

Rama is the embodiment of virtue and dharma. He is worshipped as the seventh and one of the most popular avatars of Vishnu. In Rama-centric Hindu traditions, he is considered the Supreme Being. Rama is the male protagonist of the Hindu epic Ramayana. His birth is celebrated every year on Rama Navami.

According to the Ramayana, Rama was born to Dasaratha and his first wife Kausalya in Ayodhya. His siblings included Lakshmana, Bharata, and Shatrughna. He married Sita. Born in a royal family, Rama's life is described in the Hindu texts as one challenged by unexpected changes, such as an exile into impoverished and difficult circumstances, and challenges of ethical questions and moral dilemmas. The most notable story involving Rama is the kidnapping of Sita by the demon-king Ravana.


Rama personifies the characteristics of an ideal person (Purushottama). He had within him all the desirable virtues that any individual would seek to aspire, and he fulfils all his moral obligations. Rama is considered a Maryada Purushottama or the best of upholders of Dharma.


Sri Rama Stotram - https://youtu.be/RN7RkXepIjE?si=_w9lAXjIRopN47UJ


स सर्वं सिद्धिमासाद्य ह्यन्ते रामपदं व्रजेत् ।

चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥


विश्वस्य चात्मनो नित्यं पारतन्त्र्यं विचिन्त्य च ।

चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥


अचिन्त्योऽपि शरीरादेः स्वातन्त्र्येणैव विद्यते ।

चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥


आत्माधारं स्वतन्त्रं च सर्वशक्तिं विचिन्त्य च ।

चिन्तयेच्चेतसा नित्यं श्रीरामः शरणं मम ॥


नित्यात्मगुणसम्युक्तो नित्यात्मतनुमण्डितः ।

नित्यात्मकेलिनिरतः श्रीरामः शरणं मम ॥


गुणलीलास्वरूपैश्च मितिर्यस्य न विद्यते ।

अतोऽवाङ्मनसा वेद्यः श्रीरामः शरणं मम ॥


कर्ता सर्वस्य जगतो भर्ता सर्वस्य सर्वगः ।

आहर्ता कार्य जातस्य श्रीरामः शरणं मम ॥


वासुदेवादिमूर्तीनां चतुर्णां कारणं परम् ।

चतुर्विंशति मूर्तीनां श्रीरामः शरणं मम ॥


नित्यमुक्तजनैर्जुष्टो निविष्टः परमे पदे ।

पदं परमभक्तानां श्रीरामः शरणं मम ॥


महदादिस्वरूपेण संस्थितः प्राकृते पदे ।

ब्रह्मादिदेवरूपैश्च श्रीरामः शरणं मम ॥


मन्वादिनृपरूपेण श्रुतिमार्गं बिभर्तियः ।

यः प्राकृत स्वरूपेण श्रीरामः शरणं मम ॥


ऋषिरूपेण यो देवो वन्यवृत्तिमपालयत् ।

योऽन्तरात्मा च सर्वेषां श्रीरामः शरणं मम ॥


योऽसौ सर्वतनुः सर्वः सर्वनामा सनातनः ।

आस्थितः सर्वभावेषु श्रीरामः शरणं मम ॥


बहिर्मत्स्यादिरूपेण सद्धर्ममनुपालयन् ।

परिपाति जनान् दीनान् श्रीरामः शरणं मम ॥


यश्चात्मानं पृथक्कृत्य भावेन पुरुषोत्तमः ।

अर्चायामास्थितो देवः श्रीरामः शरणं मम ॥


अर्चावतार रूपेण दर्शनस्पर्शनादिभिः ।

दीनानुद्धरते योऽसौ श्रीरामः शरणं मम ॥


कौशल्याशुक्तिसञ्जातो जानकीकण्ठभूषणः ।

मुक्ताफलसमो योऽसौ श्रीरामः शरणं मम ॥


विश्वामित्रमखत्राता ताटकागतिदायकः ।

अहल्याशापशमनः श्रीरामः शरणं मम ॥


पिनाकभञ्जनः श्रीमान् जानकीप्रेमपालकः ।

जामदग्न्यप्रतापघ्नः श्रीरामः शरणं मम ॥


राज्याभिषेकसंहृष्टः कैकेयी वचनात्पुनः ।

पितृदत्तवनक्रीडः श्रीरामः शरणं मम ॥


जटाचीरधरोधन्वी जानकीलक्ष्मणान्वितः ।

चित्रकूटकृतावासः श्रीरामः शरणं मम ॥


महापञ्चवटीलीला सञ्जातपरमोत्सवः ।

दण्डकारण्यसञ्चारी श्रीरामः शरणं मम ॥


खरदूषणविच्छेदी दुष्टराक्षसभञ्जनः ।

हृतशूर्पणखाशोभः श्रीरामः शरणं मम ॥


मायामृगविभेत्ता च हृतसीतानुतापकृत् ।

जानकीविरहाक्रोशी श्रीरामः शरणं मम ॥


लक्ष्मणानुचरोधन्वी लोकयात्राविडम्बकृत् ।

पम्पातीरकृतान्वेषः श्रीरामः शरणं मम ॥


जटायुगति दाता च कबन्धगतिदायकः ।

हनुमत्कृतसाहित्य श्रीरामः शरणं मम ॥


सुग्रीवराज्यदः श्रीशो वालिनिग्रहकारकः ।

अङ्गदाश्वासनकरः श्रीरामः शरणं मम ॥


सीतान्वेषणनिर्मुक्तहनुमत्प्रमुखव्रजः ।

मुद्रानिवेशितबलः श्रीरामः शरणं मम ॥


हेलोत्तरितपाथोधिर्बलनिर्धूतराक्षसः ।

लङ्कादाहकरो धीरः श्रीरामः शरणं मम ॥


रोषसम्बद्धपाथोधिर्लङ्काप्रासादरोधकः ।

रावणादिप्रभेत्ता च श्रीरामः शरणं मम ॥


जानकी जीवनत्राता विभीषणसमृद्धिदः ।

पुष्पकारोहणासक्तः श्रीरामः शरणं मम ॥


राज्यसिंहासनारूढः कौशल्यानन्दवर्धनः ।

नामनिर्धूतनिरयः श्रीरामः शरणं मम ॥


यज्ञकर्ता यज्ञभोक्ता यज्ञभर्तामहेश्वरः ।

अयोध्यामुक्तिदः शास्ता श्रीरामः शरणं मम ॥


प्रपठेद्यः शुभं स्तोत्रं मुच्येत भवबन्धनात् ।

मन्त्रश्चाष्टाक्षरो देवः श्रीरामः शरणं मम ॥


प्रपन्नः सर्वधर्मेभ्योः मामेकं शरणं गतः ।

पठेन्निदं मम स्तोत्रं मुच्यते भव बन्धनात् ॥


इति बृहद्ब्रह्मसंहितान्तर्गत अष्टाक्षर श्रीराम मन्त्र स्तोत्रम् ।