Pages

Varaha - The Boar

'Varaha'  is The boar incarnation of Lord Vishnu listed as the Third in Dashavatara, the ten principal avatars of Vishnu. Varaha is most commonly associated with the legend when he lifts the earth goddess Bhumi out of the cosmic ocean when the demon Hiranyaksha stole the earth goddess and hid her in the primordial waters, Vishnu appeared as Varaha to rescue her. Varaha killed Hiranyaksha and retrieved the earth goddess from the cosmic ocean, lifting it on his tusks, and restored her to her place in the universe.


This fierce incarnation is usually seen supporting the weight of the world on his one mighty tusk. This avatar of Lord Vishnu is believed to be a symbol of sacrifice. The story shows the bringing of peace amidst the chaos. It shows the triumph of good over evil as Hiranyaksha is defeated.


Varaha Stotramm - https://youtu.be/-E3xgH7YX1s?si=DL-wlFU_XS_PXfSK


॥ ऋषय ऊचुः ॥


जितं जितं तेऽजित यज्ञभावना त्रयीं तनुं स्वां परिधुन्वते नमः ।

यद्रोमगर्तेषु निलिल्युरध्वरास्तस्मै नमः कारणसूकराय ते ॥


रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम् ।

छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् ॥


स्रुक्तुण्ड आसीत्स्रुव ईश नासयोरिडोदरे चमसाः कर्णरन्ध्रे ।

प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥


दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः ।

जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते ॥


सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः ।

सत्राणि सर्वाणि शरीरसन्धिस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धनः ॥


नमो नमस्तेऽखिलयन्त्रदेवताद्रव्याय सर्वक्रतवे क्रियात्मने ।

वैराग्यभक्त्यात्मजयानुभावितज्ञानाय विद्यागुरवे नमो नमः ॥ 


दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरा ।

यथा वनान्निःसरतो दता धृता मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥


त्रयीमयं रूपमिदं च सौकरं भूमण्डलेनाथ दता धृतेन ते ।

चकास्ति शृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः ॥


संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता ।

विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥


कः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् ।

न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम् ॥


विधुन्वता वेदमयं निजं वपुर्जनस्तपःसत्यनिवासिनो वयम् ।

सटाशिखोद्धूतशिवाम्बुबिन्दुभिर्विमृज्यमाना भृशमीश पाविताः ॥ 


स वै बत भ्रष्टमतिस्तवैष ते यः कर्मणां पारमपारकर्मणः ।

यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन् विधेहि शम् ॥ 


॥ इति श्रीमद्भागवतपुराणान्तर्गतं वराहस्तोत्रं सम्पूर्णम् ॥